क॑ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ।। क॑ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे । समे कामान् काम कामाय मह्यं । कामेश्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय । महाराजाय नम: । &॑ स्वस्ति । साम्राज्य भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समंतपर्यायीस्यात् सार्वभौम: सार्वायुष आं तादापरार्धात् पृथिव्यै समुद्रपर्यंताया एकेराळिति । तदप्येषः श्लोको5भिगीतो मरुत: परिवेष्टारो मरुतस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ।। एकदंतायविद्महे वक्रतुण्डाय धीमहि । तन्नोदंती प्रचोदयात् । ।। मंत्रपुष्पांजली समर्पयामि ।। 1। गणपतिबाप्पा मोरया ।।